This page has not been fully proofread.

संकेतादिविवृतिः
 
स्थानेष्वेतेषु भूयो निजनयनधनुः प्रेरितस्तैः पतद्भिः
स्यन्दन्ते सुन्दरीणां ज्वलदनलनिभर्बिन्दवः कामवाराम् ॥ ५२॥
 
3196
 
सरसिजमरुणं हृदये कुचयोचूतं दृशोरशोकं च ।
शिरसि शिरीषं योनावुत्पलमेतानि पञ्च बाणाः स्युः॥५३॥
 
3197
 
रोचनामीनपित्ताभ्यां सव्यहस्तकनिष्ठया ।
 
कृतो विशेषको युक्त्या त्रैलोक्यस्यापि मोहनः ॥ ५४ ॥
 
3198
 
कनकस्य तु पञ्चाङ्गं कर्पूर केतकीरजः ।
आत्मशुक्रेण संयुक्तं वश्यकृद्भक्षितं स्त्रियाः ॥ ५५ ॥
 
3199
 
शिलागोरोचनापत्रकुङ्कुमस्य विशेषकात् ।
अङ्गलेपनतो नारी नरेन्द्रस्य प्रिया भवेत् ॥ ५६ ॥
 
४६१
 
3200
 
चूर्णे दत्तं वशकृचूर्ण कीटस्य काकजङ्कायाः ।
मुनिदलरससिक्तो वा टङ्कणकः स्वाङ्गमलमिलितः ॥५७॥
 
3201
 
क्षौमी लेखावर्ति गददलताली सतगर कैस्तैलम् ।
सिद्धार्थस्य गृहीत्वा नृकपाले चाञ्जनं विहितम् ।
नयनगतं युवतीनामपि मुनिचेतांसि मोहयति ॥ ५८ ॥
 
3202
 
यदि सहदेवीमूलं ग्रहणे संगृह्य रोचनापिष्टम् ॥ ५९ ॥
तत्कृततिलका नारी गुरुकुलमपि वश्यतां नयति ।
 
3203
 
सितदूर्वा सितबृहती सितगिरिकर्णी समूलपुष्पा च ।
ताम्बूलेन वितीर्णी स्त्रीपुरुषी वश्यतां नयति ॥ ६० ॥