This page has not been fully proofread.

४६०
 
शार्ङ्गधरपद्धतिः
 
अथ कामगायत्री ।
 
3190
 
ॐ नमो भगवासाय विद्महे पुष्पबाणाय धीमहि ।
तन्नः कामः प्रचोदयात् ॥
 
व्याजेन चुम्बनादीनामुच्छ्रासं पाययेत्प्रियाम् ।
तेन सा वशमायाति न तु तस्याः स्वयं पिवेत् ॥ ४७॥
 
3191
 
अङ्गुष्ठे पदगुल्फजानुजघने नाभौ च वक्षःस्तने
कक्षाकण्ठकपोलदन्तवसने नेत्रालिके मूर्धनि ।
शुक्लाशुक्लविभागतो मृगदृशामङ्गेष्वनङ्गस्थिती-
रूर्ध्वाधोगमनेन वामपद्गाः पक्षद्वये लक्षयेत् ॥ ४८ ॥
 
3192
 
के गृह्णन्ति कचाँल्ललाटनयने चुम्बन्ति दन्तच्छदं
दन्तौधेन निपीडयन्ति तरसा चुम्बन्ति गण्डस्थलीम् ।
कक्षाकण्डतट लिखन्ति नखरैगृहन्ति गाढं स्तनो
मुष्टया वक्षसि ताडयन्ति ददते नाभौ चपेटां शनैः ॥ ४९ ॥
 
3193
 
कुर्वन्ति स्मरमन्दिरे करिकरक्रीडां स्त्रियो जानुनी
गुल्फाङ्गुष्ठपदानि च प्रतिमुहुर्निम्नन्ति तैरात्मनः ।
इत्येवं कलयन्ति ये शशिकलामालिङ्गच मज्जन्ति ते
शीतांशूपलपुत्तिकां शशिकरस्पृष्टामिव प्रेयसीम् ॥ ५० ॥
 
3194
 
ज्ञात्वानङ्ग स्थिति कामी तत्स्थानं संस्पृशेद्रते ।
 
तेन कान्ता वशं याति द्रुतं द्रवति निश्चितम् ॥ ५१ ॥
 
3195
 
एकारौकारयुक्ता हरिहरिजहराः पञ्च बाणा: स्मरस्य
ख्याता लक्ष्याण्यमीषां हृदयकुचदृशो मूर्ध्नि गुह्ये क्रमेण ।