This page has not been fully proofread.

30
 
यथा
 
यथा
 
संकेतादिविवृतिः
 
3172
 
प्राप्तेषु शृङ्गारसाश्रयेषु
हावेषु कामाङ्कुरचिह्नभूतः ।
उत्पद्यते यः स्मितवीक्षितोक्त-
मुन्मीलितं बालतया स हावः ॥ २९ ॥
 
3173
 
विसंस्थूलावेशमयो विकारो विविधः स्त्रियः ।
तमामनन्ति विक्षेपं मुनयः कपिलादयः ॥ ३० ॥
 
3174
 
यथा
 
धम्मिलं बद्धमुक्तं तिलकमसकलं न्यस्तवृत्तं च धत्ते
दृष्टावेकत्र कालाञ्जनमुरसि रणत्किंकिणीं रत्नकाञ्चीम् ।
अंसोत्क्षिप्ताहारक्रमुकफलरसा रञ्जितकाधरान्ता
कान्ता विक्षेपभावाद पहरति मनः स्रस्तरुद्धो रुवासाः ॥३१॥
 
3175
 
वाच्यानां च पदार्थानां ज्ञानेपि यदभाषणम् ।
नायकेषु मृगाक्षीणां विहतं तत्प्रकीर्तितम् ॥३२॥
 
3176
 
कण्डे क एष तव वल्लभ नूपुरोय
तत्पादभूषणमयं वलयस्तदानीम् ।
इत्यादिवाच्यमविभाव्य वचो मृगाक्ष्या
ज्ञानेपि तहितमुत्सुकतां तनोति ॥ ३३ ॥
 
४५७
 
3177
 
मधुपानमदे प्रायस्तारुण्यातिशयोद्भवः ।
 
विकारो यो वरस्त्रीणां तं वदन्ति मदं बुधाः ॥ ३४ ॥