This page has not been fully proofread.

संकेताद्याख्यानम्
 
अयि श्रेयश्चिन्त्यं सततमबलाभिः प्रणयिना-
ममासीस्तन्वि त्वं प्रतनुमपि विच्छित्तिविषयम् ॥ १७ ॥
 
3161
 
अभिमतवस्तूपहतावपि गुरुगर्वादनादर स्तन्व्याः ।
 
स्खलितेपि प्रियस्य संयमताडनामेत्येव विब्बोकः ॥ १८ ॥
 
3162
 
यथा
 
अनास्था वस्तूनामभिमतगुणानामुपहतौ
 
घनो गर्वस्तन्व्या रुषि च विहिताडम्बरविधिः ।
प्रहार: पादाभ्यां यमनमपि काञ्च्या चरणयोः
प्रियाया विब्बोकं तदिदमिति धन्योनुभवति ॥ १९ ॥
 
3163
 
सौख्येषु हसितरुदितत्रासक्रोध श्रमाभिलाषाणाम् ।
संघर्षः प्रियदर्शनहर्षात्किलकिञ्चितं ज्ञेयम् ॥ २० ॥
 
3164
 
यथा
 
४५५
 
क्रन्दत्यबाष्पमभये भयमातनोति
 
क्रोधो मनाग्भवति तत्क्षणमेव हास्यम् ।
आलम्ब्य हर्षमबला किलकिञ्चिताख्यं
हावं विभावयति पुण्यवतोन्तिकस्था ॥ २१ ॥
 
3165
 
क्रोधः स्मितं च कुसुमाभरणादियाच्चां
तद्वर्जनं च सहसैव विमण्डनं च ।
आक्षिप्य कान्तवचनं लपनं सखीभि-
निष्कारणं स्थितगतेन स विभ्रमः स्यात् ॥ २२॥
 
3166
 
यथा
 
आस्तां माद्य भवे शुभे सखि लता न्यस्ता त्वया माधवी
कान्ते तन्मम संप्रयच्छ कुसुमं किं वामुना मे फलम् ।