This page has been fully proofread once and needs a second look.

३२
 
शार्ङ्गधरपद्धतिः
 

196
 

अन्यवर्णपरावृत्त्या बन्धचिह्ननिगूहनैः ।

अनाख्यातः सतां मध्ये कविधौश्चौरो विभाव्यते ॥ ६ ॥
 

-------------
अथ पण्डितप्रशंसा ॥ १० ॥
 

197
 

अधिगतपरमार्थान्पण्डितान्मा वमंस्था-

स्तृणमिव लघुलक्ष्मर्निमीर्नैव तान्संरुणद्धि ।

मदमिलितमिलिन्दश्यामगण्डस्थलानां

न भवति विसतन्तुर्वारणं वारणानाम् ॥ १ ॥
 

198
 

इह तुरगशतैः प्रयान्तु मूर्खा

धनरहितास्तु बुधाः प्रयान्तु पद्भ्याम् ।

गिरिशिखरगतापि काकपङ्किः
क्तिः
पुलिनगतैर्न समत्वमेति हंसैः ॥ २ ॥
 

199
 

अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयम् ।

अहो सुमनसां प्रीतिर्वामदक्षिणयोः समा ॥ ३ ॥
 

कस्यापि ।
 

200
 

उदीरितोर्थ: पशुनापि गृह्यते
 
F

याश्च नागाश्च वहन्ति नोदिताः ।

अनुक्तमप्यूहति पण्डितो जनः

परेङ्गितज्ञानफला हि बुद्धयः ॥ ४ ॥
 

कस्यापि ।
 

201
 

पण्डिते हि गुणाः सर्वे मूर्खे दोषाश्च केवलाः ।

तस्मान्मूर्खसहस्रेण प्राज्ञ एको न लभ्यते ॥ ५ ॥