This page has not been fully proofread.

३२
 
शार्ङ्गधरपद्धतिः
 
196
 
अन्यवर्णपरावृत्त्या बन्धचिह्ननिगूहनैः ।
अनाख्यातः सतां मध्ये कविधौरो विभाव्यते ॥ ६ ॥
 
अथ पण्डितप्रशंसा ॥ १० ॥
 
197
 
अधिगतपरमार्थान्पण्डितान्मा वमंस्था-
स्तृणमिव लघुलक्ष्मर्निव तान्संरुणद्धि ।
मदमिलितमिलिन्दश्यामगण्डस्थलानां
न भवति विसतन्तुर्वारणं वारणानाम् ॥ १ ॥
 
198
 
इह तुरगशतैः प्रयान्तु मूर्खा
धनरहितास्तु बुधाः प्रयान्तु पद्भ्याम् ।
गिरिशिखरगतापि काकपङ्किः
पुलिनगतैर्न समत्वमेति हंसैः ॥ २ ॥
 
199
 
अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयम् ।
अहो सुमनसां प्रीतिर्वामदक्षिणयोः समा ॥ ३ ॥
 
कस्यापि ।
 
200
 
उदीरितोर्थ: पशुनापि गृह्यते
 
Fयाश्च नागाश्च वहन्ति नोदिताः ।
अनुक्तमप्यूहति पण्डितो जनः
परेङ्गितज्ञानफला हि बुद्धयः ॥ ४ ॥
 
कस्यापि ।
 
201
 
पण्डिते हि गुणाः सर्वे मूर्खे दोषाश्च केवलाः ।
तस्मान्मूर्खसहस्रेण प्राज्ञ एको न लभ्यते ॥ ५ ॥