This page has not been fully proofread.

४५४
 
शार्ङ्गधरपद्धति:
 
3154
 
अथाशुद्धोद्भवो ग्राम्यनर्तकस्येव यो भवेत् ।
कैतवस्त्रेहमापन्नो भावः संकीर्ण उच्यते ॥ ११ ॥
 
हेलाविच्छित्तिविश्वोककिलिकिञ्चितविभ्रमाः
 

 
लीला विलासो हावश्च विक्षेपो विहतं मदः ॥ १२ ॥
 
3156
 
अथ हावाः ।
 
3155
 
मोड्डायितं कुड्डमितं मौग्ध्यं च तपनं तथा ।
ललितं चेत्यमी हावाश्चेष्टाः शृङ्गारभावजाः ॥ १३ ॥
 
यथा
 
3157
 
प्रौढे वयसि रूढानां नारीणां सुरतोत्सवे ।
शृङ्गारशास्त्रतत्वज्ञैः सा हेला परिकीर्तिता ॥ १४ ॥
 
:
 
3158
 
आसज्य स्वयमेव चुम्बनविधि याचा विनालिङ्गनं
तल्पान्ते जघनेन वेपथुमता पर्यर्पितं जानुनोः ।
क्रोधोत्कम्पममर्षयत्यनुनयत्यस्याः स्मरक्रीडया
प्रौढैकाभिरतिः प्रेियस्य हृदयं हेलाबलात्कर्षति ॥ १५ ॥
 
3159
 
प्रसाधनानां दयितापराधा-
द्यदीर्थयानादरतः सखीनाम् ।
प्रयत्नतो धारणमङ्गनाया
 
विच्छित्तिरेषा कथिता बहुज्ञैः ॥ १६ ॥
 
3160
 
यथा
 
सखि प्रेयानत्वा स्खलितमकरोत्क्षन्तुमुचितं
 
विधत्स्वालंकारं नहि नहि बलादर्पयसि किम् ।
 
.