This page has not been fully proofread.

संकेताद्याख्यानम्
 
3145
 
रामस्तु पञ्चमे ख्यातो विरामः षष्टकः स्मृतः ।
प्रवरः सप्तमे ज्ञेयः प्रत्यूषश्चाष्टमे स्मृतः ॥ २ ॥
 
3146
 
दाडिमं तु द्विजे ज्ञेयं पनसं क्षत्रिये स्मृतम् ।
कदलीफलकं वैश्ये तथानं शूद्रके मतम् ॥ ३ ॥
 
3147
 
राजपुत्रे द्वितीयेन्दुः संपूर्णेन्दुश्च भूपतौ ।
मध्याह्न यून्यपक्कं तु बाले पक्कं च वृद्धके ॥ ४॥
 
3148
 
ब्राह्मण्यां कुन्दपुष्पं स्याद्राजपुत्र्यां च मालती ।
मल्लिका वैदयपुत्र्यां तु शूद्रपुत्र्यां च कैरवम् ॥ ५ ॥
 
3149
 
कामुके भ्रमरः प्रोक्तः कामिन्यां चूतमञ्जरी ।
तथा ह्वानेङ्कुशधापि प्राकारो वारणे स्मृतः ॥ ६ ॥
 
3150
 
देहार्पणे रक्तसूत्रं जीवो जीवसमर्पणे ।
भल्लातकफलं भीतौ भयाभावे हरीतकी ॥ ७ ॥
 
3151
 
छिन्नवस्त्रं तु विच्छेदे सदशग्रन्थि संगमे ।
 
एकत्रेहे तथा चैकं इयोः स्नेहे तु तद्द्वयम् ॥ ८ ॥
 
एते पद्मश्रियः ।
 
अथ भावः ।
3152
 
शुद्धोशुद्धश्च संकीर्णस्त्रिधा भावः प्रकीर्तितः ।
शुद्धोपि त्रिविधो मन्दस्तीक्ष्णस्तीक्ष्णतरस्तथा ॥ ९ ॥
 
४५३
 
3153
 
ईषत्प्रकटितो मन्दस्तीक्ष्णस्तु पुलकादिभिः ।
 
स तु तीक्ष्णतरः श्वासशोषितावयवोत्र यः ॥ १० ॥