शार्ङ्गधरपद्धतिः /466
This page has not been fully proofread.
स्त्रीसेवाप्रकार:
3131
पञ्चविंशातेभेदेन प्रोक्तमेवं रतं बुधैः ।
तत्रोच्चे च समे प्रीतिर्योषितां नान्यतः सुखम् ॥ १० ॥
क
3132
देवीं चतुर्थयामे दिनराज्योरप्सरोगणं प्रथमे ।
यक्षीं तृतीययामे द्वितीयके राक्षसीं रमयेत् ॥ ११ ॥
3133
निखिलेष्वपि या कृत्या नो वा कृत्या सदा भवेद्रम्या ।
करभीचिह्ना कृत्या खरः पिशाचस्तयोर्युक्तः ॥ १२ ॥
एते शार्ङ्गधरस्य ।
अथ स्त्रीसेवाप्रकारः ॥ ९४ ॥
3134
सेवनं योषितां कुर्याद्बुधो बुद्ध्वा यथाक्रमम् ।
बाला योग्याधिरूढानामृतुयोगविभावनात् ॥ १ ॥
012
3135
बालेति गीयते नारी यावद्वर्षाणि षोडश ।
तस्मात्परं च तरुणी यावता त्रिंशता भवेत् ॥ २ ॥
3136
तदूर्ध्वमधिरूढा स्याद्यावत्पञ्चाशता भवेत् ।
वृद्धा तत्परतो ज्ञेया सुरतोत्सववञ्चिता ॥ ३ ॥
3137
निदाघशरदोर्बाला पथ्या विषयिणो भवेत् ।
हेमन्ते शिशिरे योग्या प्रौढा वर्षावसन्तयोः ॥ ४ ॥
B
४५१
3138
नित्यं वा सेव्यमानापि वाला वर्धयते बलम् ।
क्षयं नयति योग्या स्त्री प्रौढा जनयते जराम् ॥ ५ ॥