शार्ङ्गधरपद्धतिः /465
This page has not been fully proofread.
४५०
शार्ङ्गधरपद्धतिः
अथ स्त्रीपुरुषसंयोगविवृतिः ॥ ९३ ॥
3122
हरिणी छागी वडवा कारेणी करभी च पञ्चधा नार्यः ।
मृगवर्कर वृषतुरगरा सभसंज्ञा नराः पञ्च ॥ १ ॥
3123
ऋतुलोकपालपङ्किद्वादशभुवनाङ्गुलोन्मितैर्गुणैः
अनुपूर्वतस्तु युक्ता हरिणीहरिणादयो ज्ञेयाः ॥२॥
।
3124
हरिणीमृगयोर जाजयोर्यस्तुरगीवृषयोरिभाश्वयोश्च ।
करभीखरयोर्भवेत्तु योगः सममेव रतं बुधास्तदाहुः ॥३॥
3125
हरिणीछागयोञ्छागीवृषयोर्वडवाश्वयोः ।
करिणीखरयोरुच्चं रतमाहुर्मनीषिणः ॥ ४ ॥
3126
छागीहरिणं वडवाछागं करिणीवृषभं करभीतुरगम् ।
यदि लभते रतसमये नीचरतं किल तदिदं प्राहुः ॥५॥
3127
मृगी वृषमजा वाहं वडवा रासभं यदेि ।
लभते सुरतस्थाने तदात्युच्चरतं विदुः ॥ ६ ॥
3128
हयी मृगमिभी छागं करभी वृषभं यदि ।
लभते सुरते प्राहुरतिनीचरतं तदा ॥ ७ ॥
3129
हरिणीहययो छागीखरयोरप्युच्चतरं रतमिह गदितम् ।
हरिणो हरिणीं छगलः करभीमतिनीचरतं यदि संयुक्तः ॥ ८ ॥
3130
मृगी खरं यदा याति करभीच मृगं यदि ।
तदा युक्तं रतं प्राहुरसमं च बुधा जगुः ॥ ९ ॥