This page has not been fully proofread.

स्त्रीपुरुषजातिभेदः ।
 
3115
 
पृथु जठरललाट: पीनकण्ठो बलीया-
न्विपुलनिबिडकायो रोमशः पदमलाक्षः ।
अचलमतिरमर्षी सिंहघोषो धनाद्यो
 
नवघृतसमगन्धः कान्तरक्तान्तनेत्रः ॥ २५ ॥
 
3116
 
दीनेषु दाताम्लर सान्नभोजी
रजस्तमोभ्यां जनितानुषङ्गः ।
यः किंचिदाश्यामतनु: प्रदिष्टः
स यक्षजातिर्वृषलिङ्ग लिङ्गः ॥ २६ ॥
 
3117
 
कृष्णोरुणो वा विकृतास्यदंष्ट्रः
प्रचण्डकायो बलवान्पलाशी ।
 
उष्टूस्वरः कोपनिधिः सुराप
स्तमोमयो वारणदानगन्धिः ॥ २७ ॥
 
3118
 
विडालाक्षः सुरान्द्वेष्टि नित्यमूर्ध्वशिरोरुहः ।
रक्षोजातिर्नरो ज्ञेयो हथलिङ्गाममेहनः ॥ २८ ॥
 
3119
 
आसवर
तिरति बहुभुकम्लाशी च कर्मठः पिशुनः ।
स्थूल: कृशोतिदीर्घः खर्वो वा कृष्णपीतो वा ॥ २९ ॥
 
४४९
 
3120
 
अतितामसोजगन्धिः काकरवो ह्रस्वकूर्चकः पापः ।
भीरुः कुधीः पिशाचो रासमलिङ्गस्तु विज्ञेयः ॥ ३० ॥
 
3121
 
परस्परगुणान्कांश्चिद्यो बिभर्ति स मिश्रकः ।
 
यः स्वैरेव गुणैर्युक्तो स स्वरूपो निगद्यते ॥ ३१ ॥
श्रीधरस्यैते ।