This page has not been fully proofread.

४४८
 
शार्ङ्गधरपद्धतिः
 
3107
 
शुष्ककटि: पृथुजठरा विगन्धिका या च करभिकायोनिः ।
या घस्मरा शिवोक्तिः सा ज्ञेया कर्मणा कृत्या ॥ १७ ॥
 
3108
 
अन्योन्यलक्षणैर्युक्तां नारीं संकीर्णकां विदुः ।
या निजैरेव संयुक्ता चिह्नस्तां केवलां जगुः ॥ १८ ॥
 
अथ पुरुषलक्षणानि ।
 
3109
 
देवगन्धर्वयक्षाणां ये राक्षसपिशाचयोः ।
लक्षणैः संयुतास्ते स्युर्नरास्तैरेव नामभिः ॥ १९ ॥
 
3110
 
दाता सत्यवचाः शूरो ज्ञानी सत्वरतः शुचिः ।
सुवर्णकान्तिः श्यामो वा महाकायो घनध्वनिः ॥ २० ॥
 
3111
 
आजानुलम्बिबाहुः कम्बुग्रीवो बली चतुर्दष्ट: ।
भाग्यनिधिः पृथुवक्षा लघुमधुराशी च पद्माक्षः ॥ २१ ॥
 
3112
 
मलयजगन्धशरीरः कामं क्रोधं निषेवते स्थाने ।
मृगलिङ्गः सुरपुरुषो भक्तो विप्रेषु विज्ञेयः ॥ २२ ॥
 
3113
 
सत्वरजोभ्यां युक्तः श्यामो वा चम्पकाभकान्तिर्वा ।
तेजस्वी शुचिवेषो मधुराम्लरुचिर्वदान्यथ ॥ २३ ॥
 
3114
 
संगीतरक्तः प्रमदासु सक्तो
दुःखासहो दुन्दुभिधीरघोषः ।
मध्यप्रमाणोम्बुजगन्धिकायो
 
गन्धर्वजातिः कथितोजलिङ्गः ॥ २४ ॥