This page has not been fully proofread.

४४४
 
शार्ङ्गधरपद्धतिः
 
अथ मनसिजप्रशंसा ।
 
3076
 
अनङ्गेनाबलासङ्गाज्जिता येन जगत्रयी ।
 
स चित्रचरितः कामः सर्वकामप्रदोस्तु वः ॥ ४ ॥
 
क्षेमेन्द्रस्य ।
 
3077
 
कुलगुरुरवलानां केलिदीक्षाप्रबन्धे
परमसुहृदनङ्गो रोहिणीवलभस्य ।
अपि कुसुमपृषत्कैर्देवदेवस्य जेता
जयति सुरतलीलानाटिकासूत्रधारः ॥ ५ ॥
कस्यापि ।
 
अथ स्त्रीप्रशंसा ।
 
3078
 
दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।
विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥ ६ ॥
क्षेमेन्द्रस्य ।
 
3079
 
यासां सत्यपि सद्गुणानुसरणे दोषानुरागो भृशं
याः प्राणान्परमर्पयन्ति न पुनः संपूर्णदृष्टिं प्रिये ।
अत्यन्ताभिमतेपि वस्तुनि विधिर्यासां निषेधात्मक-
स्तत्तत्केलिषु दक्षिणा अपि सदा वामा जयन्त्येव ताः ॥ ७ ॥
 
कस्यापि ।
 
-
 
3080
 
न हया न च मातङ्गा न रथा न च पत्तयः ।
स्त्रीणामपाङ्गदृष्टचैव जीयते जगतां त्रयम् ॥ ८ ॥
 
दण्डिनः ।
 
3081
 
प्रभवति मनसि विवेको विदुषामपि शास्त्रसंभवस्तावत् ।
निपतन्ति दृष्टिविशेिखा यावन्नेन्दीवराक्षीणाम् ॥ ९ ॥
कृष्ण मिश्रस्य ।