This page has not been fully proofread.

29
 
केशरञ्जनम्
 
3052
 
ततस्तान्पिटरीमध्ये धृत्वा मुद्रां च दापयेत् ।
अधः प्रज्वालयेइह्निं पिटर्यास्तु शनैः शनैः ॥ २६ ॥
 
3053
 
आसामुपरि दद्याच पानीयस्य विचक्षणः ।
एवं यामइयं कुर्यात्ततस्त्वासां न दापयेत् ॥ २७ ॥
 
3054
 
बर्ट्सि खरतरं कुर्याद्याममेकं निरन्तरम् ।
गत्वोपरि रसस्तत्र म्रियते स्फटिकप्रभः ॥
भस्मसूतक एवं स्यात्ततः कार्येषु योजयेत् ॥ २८ ॥
 
अथ केशरञ्जनम् ॥ ९० ॥
 
3055
 
त्रिफलायास्तु षडागा जटादाडिमजा द्वयम् ।
भागत्रयं निशानां स्यात्सर्वमेकत्र चूर्णयेत् ॥ १ ॥
 
3056
 
भागं षष्टिकमण्डस्य कुर्यादेकं च बुद्धिमान् ।
भृङ्गराजरसं तत्र भागान्दद्याच्च विंशतिम् ॥ २ ॥
 
3057
 
सर्वमेकत्र कृत्वा तु लोहमाण्डे विनिक्षिपेत् ।
तस्योपरि ततो दद्याल्लोहस्यैव पिधानिकाम् ॥ ३ ॥
 
3058
 
भूमौ चाश्वशकृन्मध्ये मासमात्रं निधापयेत् ।
तस्य लेपं ततो मौलौ कूर्चे दुग्धेन दापयेत् ॥ ४ ॥
 
3059
 
रात्रावेरण्डपत्रैश्च वेष्टयित्वा स्वपेत्ततः ।
 
प्रातः स्नानं ततः कुर्यात्केशाः स्युभ्रमरप्रभाः ॥ ५ ॥
 
४४१