This page has not been fully proofread.

कल्पस्थानम्
 
अथ भल्लातकः ।
3040
 
भल्लातकं समादाय क्षीरेण सह पाचयेत् ।
तत्क्षीरं मधुसर्पियि पिबेन्मासत्रयावधि ।
वलीपलितनिर्मुक्तो जीवेद्वर्षशतं सुखी ॥ १४ ॥
अथ गन्धकः ।
 
3041
 
चूर्णीकृत्य पलानि पञ्च नितरां गन्धाश्मनो यत्नत-
स्तच्चूर्ण त्रिगुणे च मार्कवरसे छायाविशुष्कीकृतम् ।
पथ्याचूर्णमथो तथा मधु घृतं प्रत्येकमेषां पलं
वृद्धो यौवनमेति मासयुगलं खादन्नरः प्रत्यहम् ॥ १५ ॥
 
अथाश्वगन्धा ।
3042
 
अश्वगन्धापलं त्रिंशचूर्णयित्वा विचक्षणः ।
वृद्धदारुकचूर्णेन समभागं च कारयेत् ॥ १६ ।
 
3043
 
४३९
 
स्थापयित्वा घंटे दिव्ये सर्पिषा परिभाविते ।
कर्षमेकं समझीयाच्चूर्ण च पयसा सह ॥ १७ ॥
 
3044
 
न चात्र परिहारोस्ति शुक्रवृद्धिः प्रजायते ।
भवत्येव चतुर्मासाइलीपालेतवर्जितः ॥ १८ ॥
अथ पुनर्नवा ।
 
3045
 
पुनर्नवाजटाचूर्ण पलार्ध पयसा सह ।
मासैकं क्षीरभोजी यः स वृद्धस्तरुणायते ॥ १९ ॥