This page has not been fully proofread.

४३८
 
शार्ङ्गधरपद्धतिः
 
अथ त्रिफला ।
 
3033
 
हरीतक्यास्त्रयो भागाः शिवा द्वादशभागिका ।
 
षड्भागाश्च विभीतस्य त्रिफलेयं प्रकीर्तिता ॥ ७ ॥
 
3034
 
खादेरस्याम्भसा सप्तरात्रं भृङ्गरसेन च ।
विडङ्गपयसा सप्त सप्त ब्रह्मरसेन च ॥ ८ ॥
 
3035
 
त्रिफलां भावयित्वेत्थं भक्षयेद्गुडसर्पिषा ।
पलितं हन्ति वर्षेण सर्वरोगे: प्रमुच्यते ॥ ९ ॥
अथ भृङ्गराजः ।
 
3036
 
समूलपत्रमुत्पाट्य भृङ्गराजं शुभे दिने ।
शुष्कं च चूर्णितं पुष्ये विडालपदमात्रया ।॥ १० ॥
 
3037
 
काचिकेन समालोय भक्षयेत्प्रातरन्वहम् ।
षण्मासयोगतो हन्ति पलितं वलिभिः सह ।
दुग्धान्नभोजनासक्तचिरंजीवी भवेन्नरः ॥ ११ ॥
अथ विडङ्गादि ।
 
3038
 
विडङ्ग समधात्रीणां चूर्ण लोहरजोयुतम् ।
तैलान्वितं नरो लोढा जरसा नाभिभूयते ॥ १२ ॥
अथ हस्तिकर्णः ।
 
3039
 
अभिमन्त्र्य शुचिविधानादाज्याचं हस्तिकर्णजं चूर्णम् ।
योआति स हि नरः स्याद्यथेष्टचेष्टोपि दीर्घायुः ॥ १३ ॥
 
मन्त्रः । ॐ नमो विनायकाय स्वाहा अमृतं रक्ष २
मम सिद्धिं देहि रुद्रस्य वचने स्वहा ॥