This page has not been fully proofread.

कौतुकानि
 
3010
 
शिग्रुजटारसभावितचूर्णः
सर्षपखलिरिह रात्रावुषितः ।
 
चम्पकगन्धसमं शुचिगन्धं
 
कुरुते स्नानविधौ विनियुक्तः ॥ ३३ ॥
 
3011
 
अतिपक्ककपित्थेन लिप्तपात्रे सुयामितम् ।
 
दुग्धमस्तुविहीनं स्याच्चन्द्रबिम्बोपमं दधि ।॥ ३४ ॥
 
3012
 
धात्रीफलर सैलिप्तेपक्कपात्रे सुयामितम् ।
 
गतमृत्कं जलाधौतं पात्ररूपं भवेदधि ॥ ३५ ॥
 
3013
 
शालिमण्डेन संलिप्तशुष्कशुद्धेन वाससा ।
छादिते वेणुपात्रे स्यात्सुदुग्धं यामितं दधि । ३६ ॥
 
3014
 
फलान्यनेकवृक्षाणां मधुना मदनेन च ।
लिप्तवृन्तानि तिष्ठन्ति क्षतहीनानि वै चिरम् ॥ ३७ ॥
 
3015
 
ककुभस्य फलं पुष्पं लाक्षा श्रीवासगुग्गुलू ।
श्वेतापराजितामूलं विडङ्गान्वितसर्षपाः ॥ ३८ ॥
 
४३५
 
3016
 
धूप: सर्जरसोपेतः प्रसरन्गृहमध्यतः ।
सर्पाखु मत्कुणान्यूकान्नाशयत्येव गन्धतः ॥ ३९ ॥
 
अथ क्षेत्ररक्षा ।
 
3017
 
कुम्भे विद्यां समभ्यर्च्य मन्त्रिता बलविद्यया ।
वालुका: श्वेतसिद्धार्थान्क्षेत्रमध्ये विनिक्षिपेत् ॥ ४० ॥