This page has not been fully proofread.

३०
 
शार्ङ्गधरपद्धतिः
 
183
 
न मुग्धदयिताधरे न विषभाजि रत्नाकरे
न राहुमुखकोटरे न किल तार्क्ष्यपक्षान्तरे ।
सुदर्शनकवीश्वरे रसिकचक्रचूडामणौ
 
गुणौकसि सुधा बुधास्त्यजत सान्द्रचन्द्रभ्रमम् ॥ १२ ।
 
श्रीहरिहरिदेवानाम् ।
 
184
 
सरस्वतीव कार्णाटी विजयाङ्का जयत्यसौ ।
 
या वैदर्भगिरां वासः कालिदासादनन्तरम् ॥ १३ ॥
 
कस्यापि
 
185
 
माघेन विनितोत्साहा नोत्सहन्ते पदक्रमे ।
 
स्मरन्तो भारवेरेव कवयः कपयो यथा ॥ १४ ॥
 
धनपालस्य ।
 
186
 
हृदि लग्नेन बाणेन यन्मन्दोपि पदक्रमः ।
 
भवेत्कविकुरङ्गाणां चापलं तत्र कारणम् ॥ १५ ॥
 
187
 
तावत्कविविहंगानां ध्वनिर्लोकेषु शस्यते ।
 
यावन्नो त्रिशति श्रोत्रे मयूरमधुरध्वनिः ॥ १६ ॥
त्रिलोचनस्यैतौ ।
 
188
 
भासो रामिलसोमिलौ वररुचिः श्रीसाहसाङ्क: कवि-
ण्ठो भारविकालिदासतरलाः स्कन्धः सुबन्धुश्च यः ।
दण्डी बाणदिवाकरौ गणपतिः कान्तश्च रत्नाकरः
सिद्धा यस्य सरस्वती भगवती के तस्य सर्वेपि ते ॥१७॥
 
189
 
अहो प्रभावो वाग्देव्या यन्मातङ्ग दिवाकरः ।
 
श्रीहर्षस्याभवत्सभ्यः समो बाणमयूरयोः ॥ १८ ॥