This page has not been fully proofread.

४३४
 
शार्ङ्गधरपद्धतिः
 
3001
 
द्विपदशन: पुटदग्धः साजक्षीरो रसाञ्जनोपेतः ।
दिनसप्तक प्रलेपात्खलतेरपि रोमसंजनकः ॥ २४ ॥
 
3002
 
कर्पूरभल्लातकशङ्कचूर्ण
 
क्षारो यवानां समनः शिलश्च ।
तैलं विपकं हरितालमिश्रं
 
निर्मूललोमानि करोति सद्यः ॥ २५ ॥
 
3003
 
अङ्कोल्लवीजमज्जानां सूक्ष्मचूर्ण विधीयते ।
 
तिलतैलेन तच्चूर्ण सम्यकृत्वा च भावयेत् ॥ २६ ॥
 
3004
 
मर्दयित्वोष्णतोयेन गृह्णीयात्तैलमुत्तमम् ।
 
नानाकर्माणि सिध्यन्ति तैलेनानेन योगिनाम् ॥ २७ ॥
 
(युग्मम् ।)
 
3005
 
अपक्कमपि चूतस्य फलं द्रवति वेगतः ।
गुडशुण्ठीपलेपेन विवृतं शश्वदातपे ॥ २८ ॥
 
3006
 
निच्छल्लिदारितं राजीचूर्ण गुग्गुलमर्दितम् ।
 
अपक्कमपि चूतस्य फलं सुस्वादु जायते ॥ २९ ॥
 
3007
 
केतकी पत्रकुटैलादलकेसर चूर्णतः ।
 
दिव्यगन्धं भवेद्वारि मोहितालिकदम्बकम् ॥ ३० ॥
 
3008
 
चन्दनैलादलोशीरतगरैर्वासिते जले ।
 
पीते संजायते नित्यं गन्धो वपुषि भोगिनाम् ॥ ३१ ॥
 
3009
 
पादांशपत्रकोन्मिश्रजलचन्दनशियुभिः ।
केतकीपुष्पसंवादी गन्धो भवति निश्चितम् ॥ ३२ ॥