This page has not been fully proofread.

कौतुकान
 
2992
 
गृहीतं रेवतिऋक्षे पिप्पलस्य च वन्दकम् ।
महिलानां करे बद्धं परमं गर्भधारणम् ॥ १५ ॥
 
2993
 
धत्तूरमूलिका पुष्ये गृहीता कटिसंस्थिता ।
गर्ने निवारयत्येव रण्डावेश्यादियोषिताम् ॥ १६ ॥
 
2994
 
राजिकां तिलतैलं च पिट्टा नारी ऋतौ पिवेत् ।
त्रिदिनं तेन गर्भस्य संभवो नैव जायते ॥ १७ ॥
 
2995
 
पिवति प्रसूतिसमये काञ्जिकयुक्तं जपाभवं पुष्पम् ।
न बिभर्ति सा प्रसूतिं धृतेपि तस्या न गर्भ: स्यात् ॥ १८ ॥
 
2996
 
बब्बूलवृक्षपुष्पाणि गोदुग्धेन पिबेतौ ।
 
या नारी गर्भसंभूतिः पुनस्तस्यां न जायते ॥ १९ ॥
 
2997
 
ज्ञात्वा तु गर्ने गर्भिण्याः सार्धमासइयोन्मितम् ।
तदैकवर्णगोक्षीरे पिबेदर्भस्य मञ्जरीम् ॥ २० ॥
 
2998
 
४३३
 
पिष्टां गृहीतां च रवेर्दिने शुचिविधानतः ।
भवन्ति पुत्रिका यस्याः सा पुत्रं जनयेब्रुवम् ॥ २१ ॥
 
(युग्मम् । )
 
2999
 
ऋतुझाता पिबेन्नारी श्वेतकण्टारिकाजटाम् ।
पयसा पुत्रसंभूतिस्तस्याः संजायते ध्रुवम् ॥ २२ ॥
 
3000
 
भूनागलज्जालुकयोः कल्कसंलिप्तशेफसा ।
 
या नारी रमते सा स्यादन्येषां पुंस्त्वनाशिनी ॥ २३ ॥