This page has not been fully proofread.

४३२
 
शार्ङ्गधरपद्धतिः
 
2983
 
पुष्येपराजितामूलमुद्धृतं सर्पिषा युतम् ।
पीतं वा कंधराबद्धं गण्डमालाविनाशनम् ।
चित्रोद्धृतं गले बद्धं कुन्दमूलं निहन्ति ताम् ॥ ६॥
 
2984
 
कण्ठे रज्जुं बडा मृतस्य पुंसस्तु रज्जुमादाय ।
तस्याः खण्डं कण्ठे बद्धं गण्डस्रजं हरति ॥ ७ ॥
 
2985
 
बब्बूलबन्दकं बद्धं कट्यामर्शोविकारनुत् ।
तथा शेफालिकायास्तु वायुपीडाहरं स्मृतम् ॥ ८ ॥
 
2986
 
काकजङ्घाजटा निद्रां कुरुते मस्तके स्थिता ।
पुष्योद्धृतं शुनःपित्तमपस्मारघ्नमञ्जनात् ॥ ९ ॥
 
2987
 
निर्गुण्याः सहदेव्याश्च कटौ बद्धं जटाइयम् ।
प्रातरादित्यवारे च सर्वज्वरविनाशकृत् ॥ १० ॥
 
2988
 
कन्याकर्तितसूत्रेण बद्धापामार्गमूलिका ।
ऐकाहिकज्वरं हन्ति शिखायामतिवेगतः ॥ ११ ॥
 
2989
 
कर्णे बद्धा रवी श्वेततुरंगरिपुमूलिका ।
 
सर्वज्वरहरा श्वेतमन्दारस्य च मूलिका ॥ १२ ॥
 
2990
 
काकमाचीशिफा कर्णे बद्धा रात्रिज्वरापहा ।
पाणिस्थं वृषवृन्दाकं द्यूते वितनुते जयम् ॥ १३ ॥
 
2991
 
काकजङ्घारसः कर्णे क्षिप्तो बाधिर्यनाशनः ।
हन्ति कर्णे जटा बद्धा तस्या नेत्रामयं ध्रुवम् ॥ १४ ॥