This page has not been fully proofread.

कौतुकान
 
2977
 
सर्वबालमहेषु स्यान्मन्त्रोयं सार्वकामिकः ।
बालरक्षाविधाने च तथा दर्भादिमार्जने ॥ ४ ॥
 
मन्त्रः । ॐ नमः सर्वमातॄणां हृदयं मोटय २ भञ्जय २ काटय २
स्फोटय २ स्फुट २ तुण्ड २ गृह २ आकट्ट २ विकट्ट २ त्रोट-
य २ एवं सिद्धमाज्ञापयति हर २ निर्दोषं कुरु २ बालिका
बालो वा स्त्रीपुरुषौ वा सर्वग्रहाणामुपक्रम्यतु ॐ चामुण्डे
नमो देव्यै २ हः ह्रीं २ ह्रीं अपसरन्तु दुष्टग्रहा हुं हुं तद्यथा
गच्छन्तु गुह्यका अन्यत्र स्थाने उ रुद्रो ज्ञापयति ठः ठः स्वाहा ॥
एते आगमशास्त्रेभ्यः ।
 
अथ कौतुकाने ॥ ८८ ॥
 
2978
 

 
भूपानां रसिकानां धनिनां वा कौतुकेषु सक्तानाम्
ग्रन्थानालोक्य मया क्रियते किंचिद्विनोदार्थम् ॥ १ ॥
 
2979
 
रथ्याकूपतरुच्छायाप्रेतभूदेवगेहजाः ।
 
वल्मीकसंभवा वह्लिदग्धपानीयपीडिताः ॥ २॥
 
2980
 
हिमाखुक्रिमिभिर्युक्ता मृदुकाकालसंभवाः ।
ओषध्यो विधिनानीता न कार्य साधयन्ति ताः ॥ ३ ॥
 
( युग्मम् )
 
2981
 
अतः प्रशस्ते नक्षत्रे शुभे वारे शुचिष्मता ।
 
औषधं विधिवद्राह्यं स्मृत्वा देवीं च सुप्रभाम् ॥ ४ ॥
मन्त्रः । ॐ सुप्रभायै नमः ।
 
2982
 
पुण्यार्के मूलार्के हस्तार्के चोत्तरार्कदिवसेषु ।
 
ग्राह्यं प्रातद्रव्यं निमन्त्रितं मानुसुतदिवसे ॥ ५॥