This page has not been fully proofread.

भूतविद्या
 
2967
 
मञ्जिष्ठोयासमूलं च तद्गुली महनाशनी ।
पाननस्याञ्जनाले पस्नानोइर्तनधूपनात् ॥ २ ॥
 
2968
 
कृष्णाक से रुखर्जूर्यो बदरी मधुकम्बरी ।
शर्करा मधु सर्पिश्च सर्वोन्मादे पिबेदिदम् ॥ ३ ॥
 
2969
 
निम्बपञ्चवचाराजीहिङ्गु गोमेषरोमभिः ।
हिङ्ग्यावह्निलशुनैपौ स्यातां महापौ ॥ ४ ॥
 
2970
 
पाठापथ्यावचाशियुसिन्धुव्योषैः पृथग्जलैः ।
अजाक्षीराढके पक्कं सर्पिः सर्वग्रहान्हरेत् ॥ ५ ॥
 
2971
 
विद्या चण्डासिधारेयं ग्रहनी कर्णजापतः ।
एकविंशतिज तैश्च सर्षपैस्ताडयेन्मुखे ॥ ६ ॥
 
मन्त्रः । ॐ नमो रत्नत्रयाय नमश्रण्डवज्रपाषाणाय महामव-
सेनापतये नमञ्चण्डवज्रशृङ्खलाय प्रदीताय प्रज्वलितह-
स्ताय प्रज्वलितार्चितदीप्तकेशाय नीलकण्ठाय विभ्रान्त-
रूपाय लम्बोदराय महाज्ञानवक्राय भ्रुकुटीमुखाय चतु-
र्दष्ट्राय करालाय महाविकृतरूपाय वचगर्भाय एह्येहि
कायमनुप्रविश्य शिरसि गृह्ण २ चक्षुषी वालय २ हेिरि २
भिरि २ किं चिरायसि २ देवदानवगन्धर्वयक्षराक्षस-
भूतप्रेतपिशाचनागांस्त्रासय २ कम्पय २ समयमनुस्मर
हन २ दह २ पच २ मथ २ विध्वंसय २ चण्डासि-
धाराभीतमतिराज्ञापयति हुं फट् ठः ठः स्वाहा ॥
 
2972
 
बलिर्मद्येन मांसेन मत्स्यैस्तैलेन सक्तुभिः ।
माषापूपैः सकल्माषैरैशान्यां दिशि दीयते ॥ ७॥
 
४२९