This page has not been fully proofread.

४२८
 
शार्ङ्गधरपद्धतिः
 
2959
 
अङ्कोलपत्रधूपेन यहा केशसमन्वितैः ।
 
सक्तुभिः कटुतैलाक्तैर्यातिमत्स्यविषं क्षयम् ॥ १०२ ॥
 
2960
 
शृद्धिमत्स्यविषे स्वेदो घृतकपसपिण्डिका ।
केसरं तगरं शुण्ठी मारेचं हन्ति लेपतः ॥ १०३ ॥
 
2961
 
मक्षिकाया विषं या घृतसैन्धवलेपतः ।
 
तप्ताय: स्वेदतो भृङ्ख्या वराटयाश्च विघर्षणात् ॥ १०४ ॥
 
2962
 
वृकव्याघ्रतरवृक्षशृगालद्वपवाजिनाम् ।
रुधिरं स्रावयेदंशाहहेलोहशलाकया ॥ १०५ ॥
 
2963
 
श्यामासुरभिजिह्वा च निःशेषप्राणिसंभवम् ।
नखदन्तत्रिषं हन्ति मधुना सह लेपतः ॥ १०६ ॥
 
2964
 
वटनिम्बशमीकल्ककषायो हन्ति लेपतः ।
नि: शेषजीवजातीनां नखदन्तविषं द्रुतम् ॥ १०७ ॥
 
2965
 
पाठामूलं लिप्तं दंशस्थाने जलेन संपिष्टम् ।
सर्वेषां कीटानां विषमपहरति क्षणादेव ॥ १०८ ॥
एते नानागारुडशास्त्रेभ्यः ।
 
अथ भूतविद्या । ८६ ॥
 
2966
 
तत्र देवासुर नागत्रिदोषादिसमुपसृष्टचित्तस्योन्मा-
दिनश्चिकित्सा कथ्यते ।
राजीकरञ्जव्याघाताशरीषार्कनिशायुगम् ।
प्रियस्त्रिफलादारुहिङ्गुव्योषं कुचन्दनम् ॥ १ ॥