This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
2943
 
मन्त्रः । ॐ दष्टकर अष्टकर कालिङ्गनाग हरिनाग
सर्प डुण्डी विसु दाढवन्धन शिवगुरुप्रसाद ॥
लज्जामूलमधः पुष्पीमूलं बद्धं यदा करे ।
तदा तस्य न सर्पेभ्यो भयं कुत्रापि विद्यते ॥ ८६ ॥
 
2944
 
४२६
 
सितवर्षाभूमूलं पुष्यर्क्षगृहीत
मतिशुचिविधानात् ।
तण्डुलजलेन पिबतः सप्तदिनं सर्पभीर्नास्ति ॥ ८७ ॥
 
2945
 
आषाढशुक्लपक्षे भानोदिवसे शिरीषवृक्षस्य ।
 
मूलं जलेन पिट्ठा पिवेन भीस्तस्य सर्वोत्था ॥ ८८ ॥
 
2946
 
आवत्सरमहिमीतिर्न स्यादस्य प्रभावेण ।
 
शुकनासां च पिवेद्यो जलपिष्टां तस्य भीर्नास्ति ॥ ८९ ॥
 
अथ वृश्चिक विषचिकित्सा ।
 
2947
 
पलाशबीजमर्कस्य दुग्धे पिष्टं हरेत्क्षणात् ।
विषं वृश्चिकसंभूतं दंशस्थानविलेपनात् ॥ ९० ॥
 
2948
 
वृद्धकर्पासमूलं च मेषशृङ्गी च वारुणी ।
एकैकेन प्रयोगेण वृश्चिकोवतरत्यलम् ॥ ९९ ॥
 
2949
 
घृताक्तदुग्धलेपेन मधूकस्वेदतोथवा ।
सैन्धवोष्णाज्यपानेन वृश्चिकस्य विषं व्रजेत् ॥ १२ ॥
 
2950
 
अथ मन्त्रमिमं कर्णे जपेद्देशं स्पृशेत्तथा ।
एकविंशतिवारं च वृश्चिकक्ष्वेडशान्तये ॥ ९३ ॥