This page has not been fully proofread.

विषापहरणम्
 
अथ लहरीसमुत्थापनम् ।
 
ह्रां ह्रीं आस्तीकाय क्रीं क्लीं विषविनाशनाय ॐ वः
ॐ यः ॐ हर ४ कर्णे जपेद्दष्टः समुत्तिष्ठति ॥
 
28
 
अथ सर्पोच्चाटनम् ।
 
2938
 
सप्ताभिमन्त्रितान्यत्र
 
कर्करानेकविंशतिम् ।
 
क्षिपेत्ततः पलायन्ते सर्पास्त्रासपरायणाः ॥ ८१ ॥
 
मन्त्रः । ॐ ह्रां २ ह्रीं २ हूं २ हों २ हौं २ हूं २ हः ॥
अथास्तीकमन्त्रः ।
 
2939
 
ॐ सर्पापसर्प भद्रं ते दूरं गच्छ महाविष ।
जनमेजयस्य यज्ञान्ते आस्तीकवचनं स्मर ॥ ८२ ॥
 
2940
 
आस्तीकवचनं स्मृत्वा यः सर्पो न निवर्तते ।
शतधा भिद्यते मूर्ध्नि शिंशवृक्षफलं यथा ॥ ८३ ॥
अनेन त्रिवेलं पठितेन सर्पाः स्थानं त्यक्त्वा यान्ति
 

 
अयोषधम् ।
 
2941
 
रसोनर ससंलिप्तकर्पासास्थीनि विक्षिपेत् ।
 
बिलद्वारे ततः सर्पाः प्रणश्यन्त्यतिवेगतः ॥ ८४ ॥
 
अथ सर्परक्षा ।
 
2942
 
वस्त्रे ग्रन्थि ददन्मन्त्री सप्तवेलं जपेन्मनुम् ।
 
देहे ग्रन्थियुतं वासो यावत्तावत्र सर्पभीः ॥ ८५ ॥
 
४२५