This page has not been fully proofread.

४२४
 

 
शार्ङ्गधरपद्धतिः
 
यदि दशति सरोषस्तक्षको नागराजः
अगदमपि च कुर्यानिर्विषं तत्क्षणेन ॥ ७४ ॥
 
2932
 
अलाबुबीजं त्रपुसस्य बीजं
 
तस्यैव तोयेन च तम्निषिक्तम् ।
आलेपनाद्यैर्विधिवत्प्रयुक्तं
 
हन्याद्विषं तक्षक संभवं च ॥ ७५ ॥
 
2933
 
श्वेतवचां घृतमरिचे गुञ्जां च पिबेद्भुजंगसंदष्टः ।
छर्दिविरेकौ भवतस्ततः मुखी स्याद्विषैर्मुक्तः॥ ७६ ॥
 
2934
 
आलिर्दिव्यौषधी प्रोक्ता सूक्ष्मकण्टकसंवृता ।
विमुच्यते विषैः प्राणी पीत्वा तोयेन तज्जटाम् ॥ ७७ ॥
 
अथ घोणसीविद्या ।
 
2935
 
सप्ताभिमन्त्रितं नीरं सर्पदष्टस्य पाययेत् ।
दर्भेर्मयूरपिच्छैर्वा मार्जयेदेकविंशतिम् ॥ ७८ ॥
 
2936
 
स्थावरजङ्गमगरलं भूतग्रहशाकिनीप्रभृतीन् ।
गर्भोद्भवं च शूलं दृष्टिविषं स्फोटकं लूताः ॥ ७९ ॥
 
2937
 
नाशयति घोणसीयं विद्यामन्त्रेण पूर्वसिद्धेन ।
 
जापः सहस्रमानो मन्त्रस्य शतं च होमः स्यात् IT ८० ॥
मन्त्रः । ॐ ह्रीं नमः श्रीघोणसेहरे २ वरे २ तरे २ वां २ चल
 
२ लां २ रां २ सर २क्षं २क्षां २क्षीं २हीं २ हूं २ न्हां
भगवति श्रीघोणसे घ ५ सः ५ हर ५ वः ५ ठः ५
मः ५ वरविहंगमानुजे क्ष्मांक्ष्मी क्ष्मूं मैं क्ष्मों क्ष्म रा
रो सय २ ठ २ श्रीघोणसे हो स्वाहा ॥