This page has not been fully proofread.

विषापहरणम्
 
2924
 
जिनेहा नासया दावरोचनासिन्धुजाङ्गुलीम् ।
पिबेवा गुलिकानां तु व्योषं सबकुलास्थि वा ॥ ६७ ॥
अथ व्यन्तरचिकित्सा ।
 
2925
 
अगदैः सर्वसामान्यैर्व्यन्तराणां विषं हरेत् ।
धूपो देवीसहापिच्छखण्डनैस्तद्विषापहः ॥ ६८ ॥
 
2926
 
व्योषपिच्छविडालास्थिनकुलाङ्गरुहैः समैः ।
चूर्णितैर्मेषदुग्धाक्तैर्धूपः सर्वविषापहः ॥ ६९ ॥
 
29276
 
मन्त्रेणानेन सलिलमभिमन्व्यैकविंशतिम् ।
॥ पाययेत्सर्पदष्टस्य निर्विषो भवति क्षणात् ॥ ७० ॥
 
2928
 
व्यन्तरगोनसलूतागर्दभविस्फोटकरभमागण्डाः
 

मूषिककीटविषाणि स्थावरमपि नाशमायाति ॥ ७९ ॥
 
2929
 
दष्टमौलौ सुधां ध्यात्वा वर्षन्तीं मेघमालिकाम् ।
दर्भैर्मयूरपिच्छेर्वा मार्जयेन्मान्त्रिकस्ततः ॥ ७२ ॥
 
2930
 
ध्यानेन जलपानेन मार्जनेनाखिलं विषम् ।
 
प्राणिनां नश्यति क्षिप्रं मेघमालाप्रभावतः ॥ ७३ ॥
 
मन्त्रः । ॐ साले माले हर विषवेगं हा हा हीही समरी अं
hitware
 
वेलं अंवेगहिॐ नागेन्द्रद्रुमं रुद्रं अटं मः बूं बूं लं
 
सः ठः ठः ॥
 
४२३
 
अथ सर्पसामान्यचिकित्सा ।
 
2931
 
दधि मधु नवनीतं पिप्पली शृङ्गवेर
मरिचमपि च कुष्ठं चाष्टमं सैन्धवं च ।