This page has not been fully proofread.

४२२
 
शार्ङ्गधरपद्धतिः
 
मन्त्रः । ॐ नीलकण्ठः विमुक्षः क्षः क्षः ॥
अथ मण्डलिचिकित्सा ।
2918
 
त्रिवृन्निशायष्टिफलत्रयीस्नु -
क्क्षीरान्विते गव्यचतुष्कयुक्ते ।
ब्राह्मीरसे साधितमाज्यमुच्चै
 
॥ विनाशयेन्मण्डलिनां विषार्तिम् ॥ ६० ॥
 
Y
 
2919
 
अजामूत्रं च तद्विष्टा सूकरस्य तथैव विट् ।
बुद्बुदं लेपतो हन्यान्मण्डलिक्ष्वेडसंभवम् ॥ ६१ ॥
 
2920
 
चूर्ण तक्रभवं सुहीतरुशिफा पक्कं कदल्याः फलं
तुम्बीहिजमुनेः शिफा शिवजलं नीली सगुम्फा शिफा ।
चूर्ण नागलतादलं दधिनृपौ लोणस्य पिण्डत्रयं
योगानामिदमाशु मण्डलिविषं लेपेन निर्मूलयेत् ॥ ६२॥
 
2921
 
काकमाची तथा कुष्टं गोतक्रेण च पाचयेत् ।
नाशयेन्मण्डलिक्ष्वेडमगदोयं सुनिश्चितम् ॥ ६३ ॥
 
अथ राजील
चिकित्सा ।
 
अथ राजीलदष्टेन पेया कृष्णा ससैन्धवा ।
 
सकृष्णा खण्डदुग्धाज्यं पातव्यं वापि माक्षिकम् ॥ ६४ ॥
 
2922
 
सकुष्ठरेणुकव्योषच्छत्रातिविषमक्षिकाः ।
कटुकागृहधूमाद्या नन्ति राजीलजं विषम् ॥ ६५ ॥
 
2923
 
शिखेिपिच्छवचाहिङ्गुलशुनं नकुलास्थिभिः ।
मरीचतुल्यैर्धूप: स्याद्दिषहा स्नुहिवह्निजः ॥ ६६ ॥