This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
2901
 
मन्त्रः । ॐ भट्टिणि रिणि जिणि ॥
दूतमुखोत्थितवर्णान्द्विगुणीकृत्य त्रिभिर्हरेद्भागम् ।
अत्रशेषे शून्ये वा नो जीवतीति विज्ञेयम् ॥ ४३ ॥
 
अथ समस्तसर्पाणां तत्क्षणदष्टचिकित्सा ।
 
४२०
 
2902
 
दंशकाहिं दशेत्सद्यो दष्टः काष्ठशिलादिना ।
विषशान्त्यै दहेद्देशं ज्वलोल्काकनकादिना ॥ ४४ ॥
 
2903
 
अवोमलेन बास्यार्लेिपे संशोषयेच तम् ।
दष्टाङ्गं छेदयेद्दशोपरिष्टाद्वन्धयेद्दृढम् ॥ ४५ ॥
 
2904
 
सर्पदष्टप्रवेशे तु स्वयमेव विचक्षणः ।
मूत्रयेत्तत्क्षणादेव निर्विषत्वमवाप्नुयात् ॥ ४६ ॥
 
2905
 
सद्यो भुजंगदंशे रविमलपूरिते कदाचिदपि ।
व्रजति न धातुषु गरलं सत्यं पाषाणरेखेव ॥ ४७ ॥
 
2906
 
सघृतं मरिचं पेयं जीवो वा जीवलक्षणः ।
रामठेक्ष्वाकुपञ्चाङ्ग पूर्ण वा नस्यतो हितम् ॥ ४८ ॥
अथ दवकर चिकित्सा ।
 
2907
 
शिरीषबीजपुष्पार्कक्षीरबीजकटुत्रयम् ।
 
विषं विनाशयेत्पानलेपनस्याञ्जनादिना ॥ ४९ ॥
 
2908
 
शिरीषपुष्पं स्वरसेन भावितं
 
त्रिः सप्तकृत्वो मरिचं सिताइयम् ।