This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
2885
 
नागानां जज्ञिरे तेषां सुताः पञ्चशतं पृथक् ।
॥ अजरामरणा घोरास्ते सर्वे कामरूपेिणः ॥ २७ ॥
 
2886
 
૧૯
 
तदन्वयोद्भवाः सर्पा असंख्येयास्ततोभवन् ।
॥ स्वर्गवारिधिपातालभूतलेषु वसन्ति ते ॥ २८ ॥
 
2887
 
फणिमण्डलिराजीला वातपित्तकफात्मका: ।
क्रमाद्भौमाः स्मृताः
 
2888
 
दवकिरास्तु सफणा घोणसा मण्डलान्विताः ।
 
राजीला राजिभिश्चित्रा व्यन्तरा मिश्रलक्षणाः ॥ ३० ॥
 
2889
 
सर्पा व्यन्तरा दोषमिश्रिताः ॥ २९ ॥
 
दवकरस्य दंशः स्याद्रुक्षः शुष्क: सितेतरः ।
 
उष्णः सशोफः पीतश्च दंशो मण्डलिनः पृथुः ॥ ३१ ॥
 
2890
 
शोफवान्निग्धशीतश्च दंशो राजीलकः सितः ।
व्यन्तरादिकृतो दंशो विज्ञेयो मिश्रलक्षणः ॥ ३२ ॥
 
2891
 
दंशे स्थित्वा द्विपञ्चाशन्मात्रा संवर्धते विषम् ।
मात्रा लध्वक्षरोन्माना निमेषोन्मानिकापि वा ॥ ३३ ॥
 
2892
 
दंशाच्च याति गरलं भालं नेत्रं ततो मुखम् ।
 
आस्याच्च धमनीस्ताभ्यो धातून्व्यामोत्यपि क्रमात् ॥ ३४ ॥
 
2893
 
धातोर्धात्वन्तरप्राप्तौ विषवेगो भवेन्महान् ।
 
ततो दष्टस्य जायन्ते चेष्टा वेगेषु सप्तमु ॥ ३५ ॥
 
2894
 
वेगो रोमाञ्चमाद्यो रवयति विषजः स्वेदवकोपशोषौ
तस्योर्ध्व तत्परी हो वपुषि जनयतो वर्णभेदप्रवेपौ ।