शार्ङ्गधरपद्धतिः /432
This page has not been fully proofread.
11
विषापहरणम्
2877
घृतोद्वर्तनतो याति कण्डूतिः कपिकच्छुजा ।
याति लूता शमं शीघ्रमिङ्गुदीत्वग्विलेपनात् ॥ १९ ॥
2878
शतधौतं नवनीतं भल्लातकजं विषं हरेलेपात् ।
ईदृग्विधं समस्तं शमयति नीली तथा लोध्रम् ॥ २० ॥
2879
गुञ्जाफलानि विंशतिरभयात्रितयं गुडं च पलमात्रम् ।
कृत्वैकत्र च गुटिकाः कुर्याच्छाणोन्मिताः सकलाः ॥ २१ ॥
2880
गुटिकात्रितयं भुक्का पीत्वा चोष्णोदकं विरेकः स्यात् ।
योगोयं दूषीविषहर्ता पथ्यं च तत्र दधिभक्तम् ॥ २२ ॥
2881
कुठैले मलयजगैरिके सलोध्रे
12
पिप्पल्यौ मधुकसुचर्चिकं च मांसी ।
एषां यत्समधु नतोच्चटं च चूर्ण
तद्दृषीविषमपहन्ति साधु लीढम् ॥ २३ ॥
अथ जङ्गमविषाणि ।
तेषु पूर्व भुजंगः ।
Pleasama
४१७
2882
शेष वासु कितक्षाख्य कर्कोटाब्जमहाम्बुजाः ।
शङ्खपालश्च जलिको नागा अष्टौ पुराभवन् ॥ २४ ॥
2883
आद्यन्तौ च तदाद्यन्तौ तदाद्यन्तौ च मध्यमौ ।
वह्नीन्दुवायुवरुणपुत्रौ पितृसमप्रभो ॥ २५ ॥
2884
दशाष्टपञ्चत्रिगुणसप्तमूर्धान्वितौ क्रमात् ।
विप्रौ नृपौ विशो शूद्री हो हो नागौ प्रकीर्तितो ॥ २६ ॥