This page has not been fully proofread.

विषापहरणम्
 
2861
 
कालकूटादयो भेदा विषस्य नव सन्ति ये ।
W
चिकित्सा कथ्यते तेषां मन्त्रपूर्वमविस्तरात् ॥ ३ ॥
 
2862
 
मारचं सैन्धवं सर्पिर्मधुनिम्बफलानि च ।
 
समभागानि पिष्टानि पाययेद्विषमूर्च्छितम् ॥ ४ ॥
 
2863
 
ततोस्य छर्दिरेको च भवतस्तत्क्षणादापे ।
 
तस्मिन्निवृत्ते स्वस्थ: स्यात्कालकूटादिमोहितः ॥ ५ ॥
 
2864
 
कर्कोटिकार्कयोर्मूलं चूर्णयित्वा च सर्षपान् ।
 
सार्पेषा पाययेन्मन्त्री स्थावरक्ष्वेडशान्तये ॥ ६ ॥
 
B
 
2865
 
वन्ध्याकटिकामूलं गोमूत्रेण घृतेन वा ।
 
तण्डुलोदेन पीतं वा निहन्ति निखिलं विषम् ॥ ७ ॥
 
2866
 
स्थावर जङ्गमं चैव नखदंष्ट्रादिकं च यत् ।
श्रीफलस्य जटां सूक्ष्मां चूर्णीकृत्य निधापयेत् ॥ ८ ॥
 
४१५
 
2867
 
शाणद्वयमितं चूर्ण काञ्जिन तु पाययेत् ।
स्थावरं जङ्गमं क्ष्वेडं तथा दूषीविषं च यत् ।
तत्सर्व नाशयत्येव नात्र कार्या विचारणा ॥ ९ ॥
 
2868
 
वामकरानामिकया जलपूर्ण सप्तवारमभिमन्य ।
दक्षिणकरस्थपात्रं तस्मात्स तैव चुलुकानि ॥ १० ॥
 
2869
 
पातुं यस्य च दद्यात्स निर्विषो भवति तत्क्षणादेव ।
मन्त्रश्च शाबरोयं स उच्यते विषहरः परमः ॥ ११ ॥
( युग्मम् )