This page has not been fully proofread.

२८
 
शार्ङ्गधरपद्धतिः
 
170
 
अमृतोत्प्रेक्षणे चारुरशेषजनसज्जनः ।
कविर्गरुडवन्मान्य इन्द्रवज्रादिवृत्तकृत् ॥ १६ ॥
एतौ शार्ङ्गधरस्य ।
 
171
 
काव्यमय्यो गिरो यावच्चरन्ति विशदा भुवि ।
तावत्सारस्वतं स्थानं कविरासाद्य तिष्ठति ॥ १७ ॥
कस्यापि ।
 
अथ विशिष्टकविप्रशंसा ॥ ८ ॥
 
172
 
कबीन्दुं नौमि वाल्मीकिं यस्य रामायण कथाम् ।
चन्द्रिकामिव चिन्वन्ति चकोरा इव साधवः ॥ १ ॥
शार्ङ्गधरस्य ।
 
173
 
श्रवणाञ्जलिपुटपेयं विरचितवान्भारताख्यममृतं यः ।
तमहमरागमतृष्णं कृष्णद्वैपायनं वन्दे ॥ २ ॥
 
नारायणभहस्य ।
 
174
 
त्रयो ग्नयस्त्रयो वेदास्त्रयो देवास्त्रयो गुणाः ।
 
त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः ॥ ३ ॥
 
राजशेखरस्य ।
 
175
 
कवयः कालिदासाद्याः कवयो वयमप्यमी ।
पर्वते परमाणौ च पदार्थत्वं प्रतिष्ठितम् ॥ ४॥
 
176
 
कृष्णभहस्य ।
 
कविरमरः कविरचल: कंविरभिनन्दश्च कालिदासश्च ।
अन्ये कवयः कपयश्चापलमात्रं परं दधति ॥ ५ ॥
 
कस्यापि ।