This page has not been fully proofread.

૧૩
 
शार्ङ्गधरपद्धतिः
 
2854
 
लाजा: कुष्ठं नखं मांसी गोमयं तगरं घृतम् ।
मयूरो गोमहिष्यादिगोठे धूप ज्वरापहः ॥ ३८ ॥
 
2855
 
मलदोषे समुत्पन्ने गवां कण्ठे विबन्धयेत् ।
 
घण्टां तत्र लिखेन्मन्त्रं यावकेनामयापहम् ॥ ३९ ॥
 
2856
 
मन्त्रः । ॐ घण्टाकर्णो वटे रोते गणः प्रोक्तो महाबलः ।
मारीचिर्नाशनकरः स गाः पातु जगत्पतिः ॥ ४० ॥
अथ पशुवशीकरणम् ।
 
2857
 
अङ्गुष्टतर्जनीभ्यां गा घ्राणे संगृह्य नामयेत् ।
 
मन्त्रेणानेन वश्याः स्युः पशवोश्वादयस्तथा ॥ ४१ ॥
मन्लः । ॐ नमो भगवते विष्णवे पशूनां पतये नमः ठः ठः ॥
 
2858
 
चित्रोत्तरावैष्णवरोहिणीषु
 
चतुर्दशीदर्शदिनाष्टमीषु ।
स्थानं प्रवेशं गमनं पशूनां
 
धीमान्विदध्यान कदाचिदेव ॥ ४२ ॥
 
एते नानाशास्त्रेभ्यः ।
 
अथ विषापहरणम् । ८५ ॥
 
2859
 
स्थावरं जङ्गमं चेति द्विविधं विषमुच्यते ।
स्थावर कालकूटादि जङ्गमं भौजगादिकम् ॥ १ ॥
 
2860
 
चिकित्सा कथ्यते तेषां मन्त्रविद्याभिरौषधैः ।
यां ज्ञात्वा सर्वजन्तूनां नरः स्यादुपकारकृत् ॥ २ ॥