This page has not been fully proofread.

पशुलक्षणानि
 
2845
 
घर्वित्वा लक्ष्मणामूलं प्रेरितं मुखवायुना ।
योनिमध्यस्थितं गर्भ माहयेन्महिषीगवाम् ॥ २९ ॥
 
2846
 
शाल्मलीतलनिर्यातदर्भखण्डस्य बन्धनात् ।
 
शृङ्गनम्रा त्यजत्याशु जरामुद्देगकारिणीम् ॥ ३० ॥
 
2847
 
मधुजीरकगोरम्भातक्रलेपप्रभावतः ।
 
वत्सं स्निह्यात गौः क्षीरमतिमात्रं प्रयच्छति ॥ ३१ ॥
 
2848
 
विलिप्तं मधुना चित्रं पाषाणं पुरतः स्थितम् ।
लिहती मृतवत्सापि प्रस्नौति सुरभी द्रुतम् ॥ ३२॥
 
2849
 
ब्रह्मदण्डीशिफार्के वा बद्धा चक्राङ्कमूलिका ।
मन्थस्तम्भे सदा रक्षां क्षणस्य करोति सा ॥ ३३ ॥
 
2850
 
अङ्गारैः शाकवृक्षस्य चूर्णितः सघृ॒तैरुयहम् ।
दत्तैर्नइयत्यतीसारख्यहं पानीयवारणात् ॥ ३४ ॥
 
2851
 
४१३
 
वरुणस्य फलाद्धस्तपीडिताद्गलितो रसः ।
सत्रणे पूरितोशेषं कृमिजालं निपातयेत् ॥ ३५ ॥
 
2852
 
अरलूवृक्षपत्राणां लेपो गोमुखरोगहत् ।
गोनाससंभवः क्षारो हन्ति पुष्पं चिरोद्भवम् ॥ ३६॥
 
2853
 
ज्वरदोषे समुत्पन्ने पशूनां त्रिकटाकृतिम् ।
ललाटे लाञ्छनं कुर्यात्स्वल्पं लोहशलाकया ॥ ३७ ॥