This page has not been fully proofread.

(1
 
पशुलक्षणानि
 
अथ गावः ।
 
2827
 
अस्ताविलरूक्षाक्ष्यो मूषकनयनाथ न शुभदा गावः ।
प्रचलच्चिपिटविषाणा करटाः खरसदृशवर्णाच ॥ ११ ॥
 
2828
 
दशसप्तचतुर्दत्यः प्रलम्बमुण्डानना विनतपृष्ठाः ।
हूस्वस्थूलग्रीवा यवमध्या दारितखुराञ्च ॥ १२ ॥
 
2829
 
श्यामातिदीर्घजिह्वा गुल्फैरतितनुभिरतिमहद्भिर्वा ।
अतिककुदा कृशदेहा नेष्टा होनाधिकाङ्गाश्च ॥ १३ ॥
 
2830
 
मार्जाराक्षः कपिलः करटाभो न शुभदो द्विजस्येष्टः ।
कृष्णोष्ठतालुजिहस्त्रसनो यूथस्य नाशकरणाय ॥ १४ ॥
 
2831
 
स्थूलशकृन्मणिशृङ्गः सितोदरः कृष्णसारवर्णश्च ।
गृहजातोपि त्याज्यो यूथविनाशावहो वृषभः ॥ १५ ॥
 
2832
 
इयामाकपुष्पचित्राङ्गो भस्मारुणसंनिभो बिडालाक्षः ।
विप्राणामपि न शुभं करोति वृषभः परिगृहीतः ॥ १६ ॥
 
2833
 
मृदुसंहतताम्रोष्ठास्तनुस्फिजस्ता म्रतालुजिह्वाञ्च ।
तनुहस्वोच्चश्रवणाः सुकुक्षय: स्पष्टजङ्घाश्च ॥ १७ ॥
 
2834
 
तनुभूस्पृग्वालधयो रक्तान्तविलोचना महोच्छ्रायाः ।
सिंहस्कन्धास्तन्वल्पकम्बलाः पूजिताः सुगताः ॥ १८ ॥
 
2835
 
वामावर्तेर्वा दक्षिणपार्श्वे च दक्षिणावर्तेः ।
शुभदा भवन्त्यनडुहोजङ्घाभिचैडक निभाभिः ॥ १९ ॥