This page has not been fully proofread.

४१०
 
शार्ङ्गधरपद्धतिः
 
2820
 
मुण्डाः सर्वे शुभदाः सर्वसिताः कृष्णदेहाश्च ।
श्वेतार्धासितदेहा धन्याः कपिलार्धकृष्णाश्च ॥ ४ ॥
 
2821
 
सपृषत्कण्ठाशरावानीलपृष्ठनिभश्च ताम्रवृक्शस्तः ।
॥ कृष्णचरण: सितो वा कृष्णो वा श्वेतचरणो यः ॥ ५॥
 
2822
 
यः कृष्णाण्डः श्वेतो मध्ये कृष्णेन भवति पट्टेन ।
 
यो वा चरति सशब्दं मन्दं शस्तो न स छागः ॥ ६ ॥
 
2823
 
कृष्णशिरोरुहपादो यो वा माक्पाण्डुरोपरे नीलः ।
 
स भवति शुभकृच्छागः सोपि शुभो वामनो यश्च ॥ ७ ॥
 
2824
 
अथाप्रशस्ता: खरतुल्यनादाः
॥१४। प्रदीप्तपुच्छा: कुनखा विवर्णाः ।
निकृत्तकर्णा द्विपमस्तकाश्च
 
भवन्ति ये वा सिततालुजिह्वाः ८ ॥
 
अथ शुनकः ।
 
2825
 
पादाः पञ्चनखात्रयस्तु चरणा: पडिर्नखैर्दक्षिणः
ताम्रोष्ठानसो मृगेश्वरगतिर्जिघन्भुवं याति च ।
लाङ्गूलं ससटं यदृक्षसदृशं कर्णौ च लम्बौ मृदू
यस्य स्यात्स करोति पोष्टुरचिरात्पुष्टां श्रियं श्वा गृहे ॥ ९ ॥
 
2826
 
पादे पादे पञ्च पञ्चाग्रपादे
 
HE
 
वामे यस्याः षण्नखा मलिकाक्षी ।
 
वक्रं पुच्छ पिङ्गला लम्बकर्णा
 
या सा राष्ट्रं चुकुरी याति पुष्टा ॥ १० ॥