This page has not been fully proofread.

27
 
पशुलक्षणानि
 
2812
 
पिङ्गलायां यदा तत्वं वायोर्वा तेजसो भवेत् ।
उग्रकर्माणि सर्वाणि तदा सिध्यन्ति निश्चितम् ॥ ४९० ॥
 
2813
 
यदेडायां मरुत्तत्त्वं तेजस्तत्वं भवेदुत ।
 
कार्याणां सौम्यदीप्तानां सदा स्यान्मिश्रितं फलम् ॥ ४९९॥
 
2814
 
पिङ्गलायां धरानीरतत्त्वे प्रवहतो यदि ।
तदोमसौम्य कार्याणां भवेत्फलविमिश्रता ॥ ४९२ ॥
 
2815
 
पिङ्गलायामिडायां वा व्योमतत्त्वं न शस्यते ।
॥ कर्मणां शान्तदीप्तानामारम्भे नाशकं यतः ॥ ४९३ ॥
 
४०९
 
2816
 
तत्वबलान्नाडीबलमधिकं प्रोक्तं महर्षिभिर्नियतम् ।
ज्ञानं स्वरचारं नरो भवेत्कार्यनिपुणमतिः ॥ ४९४ ॥
एते नानाशकुनशास्त्रेभ्यः केचिन्ममापि ।
 
अथ पशूनां लक्षणानि चिकित्सा च ॥ ८४ ॥
 
तेषु पूर्व
 
छागः ।
 
2817
 
भूपानां धनिनां वा गेहेषु वसन्ति संततं पशवः ।
माह्या: सुलक्षणास्ते कुलक्षणा दूरतस्त्याज्याः ॥ १ ॥
 
(2818
 
छागशुभाशुभलक्षणमभिधास्ये नवदशाष्टदन्तास्ते ।
 
धन्याः स्थाप्या वेश्मनि संत्याज्याः सप्तदन्ता ये ॥ २ ॥
 
HE THINGS
 
2819
 
स्तन इव च गले लम्बति यश्छागलानां मणिः स विज्ञेयः ।
एकमणि: शुभफलकृद्धीनफला द्वित्रमणयो ये ॥ ३ ॥