This page has not been fully proofread.

शकुनज्ञानम्
2795
 
हंसाभिधानः पवनो नाभिमूलात्समुत्थितः ।
नाडीमार्गेण जन्तूनां प्रकरोति गतागतम् ॥ ४७३ ॥
 
2796
 
इडया संचरन्यायुः सौम्ये कार्ये शुभः स्मृतः ।
पिङ्गलायां तथा दीप्ते द्वयोः कापि न शोभनः ॥ ४७४ ॥
 
:
 
2797
 
४०७
 
अध्ययनमित्रसङ्गप्रवेशयात्राविवाहदानेषु ।
 
शुभकार्येष्वखिलेष्वपि शस्तः सोमाध्वगः पवनः ॥ ४७५ ॥
 
2798
 
युद्धवादरतवस्तुविक्रय-
द्यूतभोजनभयोग्रकर्मसु ।
सूर्यमार्गगमनः समीरण-
स्तत्त्वदर्शिभिरतीव शस्यते ॥ ४७६ ॥
 
2799
 
शुभ: स्यात्प्रविशन्नन्तर्मारुतो न तु निःसरन् ।
सौम्ये वा दीप्तकार्ये वा सर्वत्रैषा विचारणा ॥ ४७७ ॥
 
2800
 
यस्यां प्रवहति वायुर्नाडी सा जीवसंयुता गदेिता ।
 
यस्यां नैष प्रवहति निर्जीवा सा समाख्याता ॥ ४७८ ॥
 
2801
 
दीप्ते कार्ये नाडी परदिशि निर्जीवितां सदा कुर्यात् ।
शान्ते च जीवसहितां ततस्तु सिध्यन्ति सर्वकार्याणि ॥ ४७९ ॥
अथ पञ्चतत्वानि ।
 
2802
 
अम्भस्तत्वं भूमितत्त्वं च वायो-
स्तत्त्वं तेजस्तत्वमाकाशतत्वम् ।
 
पञ्चैतानि प्राणवायुं मिलित्वा
 
नाडीयुग्मे प्राणिनां संचरन्ति ॥ ४८० ॥
 
-