This page has not been fully proofread.

४०६
 
शार्ङ्गधरपद्धतिः
 
2786
 
यस्योटजेपि वसतो ध्रुवं समासाद्य जायते शकुनः ।
मासार्धमस्य न चिरात्पुंसः सौधानि साधयति ॥ ४६४ ॥
 
2787
 
ग्रामारामामरगृहपरिखा वा यदि शाश्वतारम्भात् ।
सिद्धिं ध्रुवोत्थशकुनो नयति सुखोद्वाहमुख्यांश्च ॥ ४६५ ॥
 
2788
 
ईशानोत्थैः शकुनैचोरा ग्रामं प्रविश्य न लभन्ते ।
 
न च रोगात जीवति स्वस्थोप्य स्वास्थ्यमामोति ॥ ४६६ ॥
 
2789
 
ईशानोत्थैः शकुनैर्विशेषतः शूरमण्डलाक्रान्तैः ।
रिपुवेष्टित इव दूरं त्यक्त्वा स्थानं पलायेत ॥ ४६७ ॥
 
2790
 
पश्चिममूले शान्ते शकुना: शान्ताः शुभावहा: सद्यः ।
प्राचीमूले च तथा शान्ताः परिणामसौख्यकराः ॥४६८ ॥
 
2791
 
यस्मिन्देशे यथा येषां प्रसिद्धं शकुनं किल ।
तस्मिन्देशे तथा तेषां फलदं नान्यतः कचित् ॥ ४६९ ॥
 
अथ स्वरोदय: ।
 
2792
 
मयंप्राक्तनपुण्यस्य पापस्य च फलप्रदम् ।
 
स्वरोदयं प्रवक्ष्यामि यं ज्ञात्वा नावसीदति ॥ ४७० ॥
 
2793
 
स्वरोदये शुभे जाते शकुनैः किं प्रयोजनम् ।
तस्मिंश्चाप्यशुभे जाते शकुनै: किं प्रयोजनम् ॥ ४७१ ॥
 
2794
 
इडा सोमस्य नाडी स्यापिङ्गला सूर्यनाडिका ।
इडा सौम्या भवेद्दामा पिङ्गलोया च दक्षिणा ॥ ४७२ ॥