This page has not been fully proofread.

शकुनज्ञानम् .
 
2758
 
अद्यतने योद्धव्ये शकुने विजयाय यात्रिकविरुद्धः ।
दिवसान्तरिते युद्धे क्षेम: प्रास्थानिकः शकुनः ॥४३६ ॥
 
अथ क्षुतम् ।
 
2759
 
लाभकारि भवेदैन्द्रद्र्यामानेय्यां हानिकृत्तथा ।
 
यमालये मरणकन्नैर्ऋत्यां दुःखक़त्क्षुतम् ॥ ४३७ ॥
 
४०३
 
2760
 
पश्चिमायां भवेल्लक्ष्मीः शुभवाती मरुद्दिशि ।
कौबेर्या ध्रुवलाभः स्यादेशान्यां विजयो भवेत् ।
ब्रह्मस्थाने क्षुते जाते राज्यं निःसंशयं भवेत् ॥ ४३८ ॥
 
2761
 
वामविभागे सफलं न दक्षिणे पृष्ठतः शुभं तच ।
क्षुतमयेथे नियतं ददाति कष्टं तथा मरणम् ॥ ४३९ ॥
 
2762
 
पौनः पुनिकं व्यर्थ हठहास्यभयादिभिर्विडालस्य ।
 
श्वानस्य च मृत्युकरं पशुक्षुतं कष्टदं नियतम् ॥ ४४० ॥
 
2763
 
वस्तुविक्रय कर्तव्ये क्षुतं विक्रयवारकम् ।
 
लाभदं वस्तुनो आहे तच्चेत्स्याव्यवसायिनाम् ॥४४१ ॥
 
2764
 
नष्टान्वेषे गच्छतां तु तच्च नष्टाप्तये भवेत् ।
 
नव्ये परिधृते वस्त्रे क्षुतं चेदखलाभदम् ॥ ४४२ ॥
 
2765
 
होमपूजाशनक्षेत्रधर्मान्ते चेद्भवेत्क्षुतम् ॥
सविशेष तदा कार्य पुनर्व्यावृय जायते ॥ ४४३ ॥
 
2766
 
क्षुतं प्रेतक्रियान्ते च पुनः प्रेतक्रियाकरम् ।
बलिनं रिपुमाख्याति क्षुतं रिपुविनिमहे ॥ ४४४ ॥