This page has not been fully proofread.

४०२
 
शार्ङ्गधरपद्धतिः
 
2749
 
खनव्युत्तीर्य भूमिं च निधानक्षितिलब्धये ।
स्वपक्षे परपक्षे तु शस्त्रपातादिभीतये ॥ ४२७ ॥
 
2750
 
उत्तीर्य पृष्ठतो याति वेष्टनं वा करोति चेत् ।
स्त्रस्थस्य वेष्टनप्राप्तिः समयस्य भयं हरेत् ॥ ४२८ ॥
 
2751
 
घ्नन्तः शृङ्गैर्विषाणाभ्यामुद्देगाय प्रवासिनः ।
खेलन्तः सुरते वापि कुर्वन्तः कार्यसिद्धये ॥ ४२९ ॥
 
2752
 
यद्युत्तरन्तस्त्रस्यन्ते तदा कार्यस्य नाशकाः ।
 
एको दक्षिणगो गौरो मूत्रकृद्यः स लाभदः ॥ ४३० ॥
 
2753
 
मृग्यो वां कृष्णसारो वा नोत्तरन्त्यः शुभावहाः ।
शुभकार्येषु दीप्ते च कार्ये ते शोभनाः स्मृताः ॥ ४३१ ॥
अथ नकुलः ।
 
2754
 
नकुलानामपि धन्यं विषमाणां दक्षिणं गतं यातुः ।
लोमशिकापि श्रेष्ठा दर्शनतस्तारगश्चाषः ॥ ४३२ ॥
अथ मिश्रशकुनानि ।
 
2755
 
सर्वत्र हंससारसत्रकोर हारीतचऋमिथुनानि ।
 
धन्यानि दर्शनरुतैः खञ्जनदात्यूहमासाथ ॥ ४३३ ॥
 
2756
 
शशशस्टकौल गोधाविषधरमार्जारकाँशिका न शुभाः ।
मार्ग विलय यान्तो दीप्ते कार्ये च ते शुभदाः ॥ ४३४ ॥
 
2757
 
व्याधिबधबन्धशुल्क ग्रहणेष्वन्वेषणे च नष्टस्य ।
प्रस्थानाद्विपरीतः शकुन: शस्तः प्रवेशे च ॥ ४३५ ॥