This page has not been fully proofread.

४००
 
शार्ङ्गधरपद्धतिः
 
2731
 
पृष्ठादागच्छन्ती पृष्ठे सौख्यं करोत्युभयभागे ।
 
यदि शुध्यति तयुग्मं विवाहयात्रे तदानिटे ॥ ४०९ ॥
 
2732
 
त्रासिता पक्षिणान्येन त्रासमाख्याति यायिनः ।
दृश्यते संमुखे तस्य वस्तु तद्वस्तुवृद्धिकृत् ॥ ४१० ॥
अथ करायिका ।
 
2733
 
ग्रामादौ गच्छतां वाम: शुभ: करकरारवः ।
दक्षिणः करायिकायाः श्रेष्ठो घुलुघुलारवः ॥ ४११ ॥
 
2734
 
प्रवेशे स्याद्दक्षिणतः श्रिये करकरारवः ।
 
वामे घुटुघुलारावो वैपरीत्येन शस्यते ॥ ४१२ ॥
 
2735
 
प्रवेशे निर्गमे चैव दक्षिणे च गतिः शुभा ।
 
उभयत्रापि वामा तु मूढा स्याद्धबन्धदा ॥ ४१३ ॥
 
2736
 
शब्दं कृत्वोड्डीयते या गत्वा वा कुरुते ध्वनिम् ।
शब्दायते तरौ वापि वामापि त्रजतां शुभा ॥ ४१४ ॥
 
2737
 
प्रवेशेल्पफला सैव ग्रामे घुलुघुला शुभा ।
 
बद्धस्य मुक्तये सद्यो मूढा घुलुघुलापि च ॥ ४१५ ॥
 
2738
 
बद्धस्य द्रव्यनिर्गव्यै तस्याः करकरारवः ।
वाणिज्यार्थ गच्छतां तु लाभदायी स एव हि ॥ ४१६ ॥
 
अथ वृकः ।
 
2739
 
यात्रायामुच्चरन्वामश्चौरभीतिकरो वृकः ।
दक्षिणे कष्टकृत्सार्थे स्त्री यदि स्यात्तदर्तये ॥ ४१७ ॥