This page has not been fully proofread.

३९८
 
शार्ङ्गधरपद्धतिः
 
2718
 
स्याद्यदि वामा श्यामा वायुरिडां विशति चेत्तदा तत्र ।
प्राक्तनशकुनात्किंचिन्यूनं भद्रं भवेन्नियतम् ॥ ३९६ ॥
 
2719
 
मारुते विशति दक्षिणनाडीं
दक्षिणा यदि गतिर्भगवत्याः ।
ईप्सितं फलमुशन्ति तदार्थ
 
निश्चयोत्र मुनिभिः कथितोयम् ॥ ३९७ ॥
 
2720
 
निःसरत्युदरतो यदीडया
 
मारुतो भगवती च दक्षिणा ।
 
अल्पकं शुभफलं भवेत्तदा
 
नात्र किंचिदविचारगोचरम् ॥ ३९८ ॥
 
अथाशुभहंसचारः ।
 
2721
 
नाडिका वहति तापनी यदा
निःसरत्युदरतः समीरणः ।
अप्रदक्षिणगतिर्धनुर्धरी
 
स्यादनिष्टफलमव्ययं तदा ॥ ३९९ ॥
 
2722
 
वायुर्दक्षिणनाच्या निःसरत्युदरतः समीरणः ।
प्राक्तनशकुनाञ्यूनं किंचिदनिष्टं भवेत्तत्र ॥ ४०० ॥
 
०॥
 
2723
 
यदि वहति वामनाडीपवनो बहिरेति पोतकी वामा ।
अर्धमनिष्टं भवात प्रस्थितकार्ये तदा नित्यम् ॥ ४०१ ॥
 
2724
 
दक्षिणनाडी पूर्णा पवनेन गतिर्यदा च वामा स्यात् ।
अल्पकमशुभं भवति ध्रुवमिह नैवास्ति संदेहः ॥ ४०२ ॥