This page has not been fully proofread.

शकुन ज्ञानम्
 
2711
 
संमुखमायान्ती वा पृष्ठरवा वा तिरोभवन्ती वा ।
अत्यन्तदुष्टचेष्टा या वा सा वारयेद्गमनम् ॥ ३८९ ॥
 
2712
 
चापच्युतेव गुलिका वियति जवाद्याति दूरदेशं या ।
तारा रणाय गन्तुमा इयामा तु मरणाय ॥ ३९० ॥
 
2713
 
मृगयुमृगयां गच्छन्मार्गे मार्गे विमार्गयन्दुर्गाम् ।
वामरवां तारां वा गृह्णीत मृगेषु दृष्टेषु ॥ ३९१ ॥
 
2714
 
३९७
 
स्थानीकृतेषु यदि वा दृग्गोचरमागतेषु वध्येषु ।
प्रावेशिकेन यायाव्याध: शकुनेन घाटिदस्तद्वत् ॥ ३९२ ॥
अथ हंसचारः ।
 
2715
 
एकत्र साथै व्रजतां बहूनां
तुल्येपि जाते शकुने फलानि ।
नानाप्रकाराणि भवन्ति येन
 
तं हंसचारं प्रविचारयामः ॥ ३९३ ॥
 
2716
 
शशाङ्कनाड्यामथवार्कनाड्या-
मन्तः शरीरे प्रविशन्त्युशन्ति ।
 
यशः समृद्धिं कुशलं जयं च
 
निर्गच्छतः स्यात्फलवैपरीत्यम् ॥ ३९४ ॥
 
अथ शुभहंसचारः ।
 
2717
 
ऐन्दवी वहति नाडिका यदा
 
स्वेच्छया प्रविशति प्रभञ्जनः ।
 
पोतकी व्रजति दक्षिणा यदा
 
स्यात्तदा सकलमीप्सितं फलम् ॥ ३९५ ॥