This page has not been fully proofread.

३९६
 
शार्ङ्गधरपद्धतिः
 
2701
 
आदो दर्शयति नतिं यान्ती यान्ती समुन्नतिं धत्ते ।
अनुकूलापि वराही चिरेण तुच्छं फलं धत्ते ॥ ३७९ ॥
 
2702
 
उच्चैरुड्डीयमाना नतिमन्ते वहति या तु गच्छन्ती ।
यच्चिरलभ्यमथाल्पं तत्सा बहु यच्छति त्वरितम् ॥ ३८० ॥
 
2703
 
वामे विधाय शब्द यात्यनुकूला करोति च विरावम् ।
वामा ततोपि भूला रौति तदा बहुफला देवी ॥ ३८१ ॥
 
2704
 
वामे विहितविचारा तारा भूत्वा करोति शब्दं या ।
 
सा विनिहत्य गतेः फलमाद्यरवोत्थं फलं धत्ते ॥ ३८२ ॥
 
2705
 
या याति मौनिनी वा प्रदक्षिणं हृद्यवामशब्दा वा ।
 
ऋज्वी शुभाय गमने वामा ग्रामप्रेवेशे च ॥ ३८३ ॥
 
2706
 
यचेका दक्षिणमा वामान्या तवयमुपेक्ष्याथ ।
 
अन्या गवेषणीया मिश्रत्वे फलविमिश्रत्वम् ॥ ३८४ ॥
 
2707
 
पृष्ठाभिमुखी पृष्ठे कार्ये नास्तीति संमुखी ब्रूते ।
तारा लाभाय पुरः पृष्ठे नष्टार्थलाभाय ॥ ३८५ ॥
 
J
 
2708
 
वामस्वरा समृद्धिं दक्षिणशब्दा निषेधमाचरति ।
संमुखशब्दानर्थ पृष्ठरवा वदति पृष्ठवर्थम् ॥ ३८६ ॥
 
2709
 
उड्डीयोर्ध्व गमने निपत्यवचना वधोन्मुखी शकुनिः ।
वामे यातुर्निधनं दिशति विपक्षे विपक्षस्य ॥ ३८७ ॥
 
2710
 
पक्षे भक्ष्यग्रहणं लाभाय विपक्षसंभव हान्यै ।
 
पञ्चानामपि मुख्या भक्ष्याप्तिर्दर्शनादीनाम् ॥ ३८८ ॥