This page has been fully proofread once and needs a second look.

२६
 
शार्ङ्गधरपद्धतिः
 

156
 

सुभाषितर सास्त्रावादवद्धरोमाञ्चक ञ्चुकाः ।
 

विनापि कामिनीसङ्गं कवयः मुखमासते ॥ २ ॥
 

कस्यापि ।
 

157
 

सन्ति श्वान इवासंख्या जातिभाजो गृहे गृहे ।

उत्पादका न बहवः कवयः शरभा इव ॥ ३ ॥

बाणभट्टस्य ।
158
 

कवयः परितुष्यन्ति नेतरे कविसूक्तिभिः ।
 

न ह्यकू पारवत्कृकूपा वर्धन्ते विधुकान्तिभिः ॥ ४ ॥
 

श्रीधनददेवानाम् ।
 
बाणभहस्य ।
 

159
 
कि

किं
कवेस्तस्य काव्येन किं काण्डेन धनुष्मतः ।

परस्य हृदये लग्नं न घूर्णयति यच्छिरः ॥ ५॥
 

त्रिविक्रमभहस्य ।
 
ट्टस्य ।
160
 

मुखमात्रेण काव्यस्य करोत्यहृदयो जनः ।

छायामच्छामपि श्यामां राहुस्तारापतेरिव ॥ ६ ॥
 

बाणभहस्य ।
 
ट्टस्य ।
161
 

लङ्कापते: संकुचितं यशो य

द्
यत्कीर्तिपात्रं रघुराजपुत्रः ।

स सर्व एवादिकवेः प्रभावो

न कोपनीयाः कवयः क्षितीन्द्रैः ॥ ७ ॥
 

बिल्हणस्य ।
 

162
 

उत्फुल्लगल्लैरालापाः क्रियन्ते दुर्मुखैः सुखम् ।
 

जानाति हि पुनः सम्यक्कविरेव कवेः श्रमम् ॥ ८ ॥
 

त्रिविक्रमभहस्य ।
 
ट्टस्य ।
163
 

शीलाविज्जामारुलामोरिकाद्याः
 

काव्यं कर्तुं सन्तु विज्ञाः स्त्रियोपि ।