This page has not been fully proofread.

३९४
 
शार्ङ्गधरपद्धतिः
 
2685
 
लाभदश्चिलचिलीति निनादः
 
शूलिशुलिनिनदोपि तथैव ।
 
कूचिकूचेिइति वापि जलार्थे
व्याहतौ चिकुरिति स्वर उक्तः ॥ ३६३ ॥
 
2686
 
कीतुकीतुइति यो मधुरोसौ
 
कामदस्तु निनदः स्खलिताख्यः ।
स्याद्भयाय नियमेन चिचीति
 
निःस्वनाश्चिलिकुनाद इहापि ॥ ३६४ ॥
 
2687
 
कष्टदश्चिरिचिरीति विराव-
श्रीकुचीकु इति दैन्यविधायि ।
एवमीदृशफला दश नादा:
 
प्रस्फुटा निगदिता भगवत्या ॥ ३६५ ॥
 
2688
 
दर्शनचेष्टास्वरगतिभक्ष्यग्रहणेष्वधिकमधिकं स्यात् ।
क्रमशो बलमेतेषां समुदाय: सकलफलहेतुः ॥ ३६६ ॥
 
2689
 
वामाइक्षिणगमना या सा तारा निगद्यते पुरतः ।
दक्षिणतो वामं या याता सा कीर्त्यते वामा ॥ ३६७ ॥
 
2690
 
वामो विभागो निजपक्षनामा
 
विपक्षनामाङ्कितदक्षिणः स्यात् ।
वामे शुभं पूर्वमुदीक्षितायां
 
यद्दक्षिणे हन्ति विलोकिता सा ॥ ३६८ ॥
 
2691
 
वामविरावा वामे स्थिता प्रशस्ता गता तारा ।
 
दक्षिणरवापि पक्षे स्थिता न शस्ता गता वामा ॥ ३६९ ॥