This page has not been fully proofread.

शकुनज्ञानम्
 
अपत्यलाभः कुकु इत्यनेन
 
गन्तुः फलं केंकक इत्यनेन ॥ ३४३ ॥
 
2666
 
क्रोक्रोमितीदं शुभलाभकारी
 
क्रुक्रं निनादः प्रियसंगमाय ।
मित्राप्तये स्यात्क इतीदृशं च
 
करोति काको वदति स्वतुष्टया ॥ ३४४ ॥
 
2667
 
क्षेमं विधत्ते करभस्य पृष्ठे
 
खरस्य पृष्ठेरिभयं वधं च ।
 
क्रोडस्य पृष्ठे धनमर्थलाभं
 
तस्यैव पृष्ठे घनपङ्कलि ॥ ३४५ ॥
 
2668
 
सद्यो ज्वरं सैरिक पृष्ठसंस्थो
 
मृताङ्गसंस्थो मरणं करोति ।
 
कार्यक्षतिं रिक्तघटाइमसंस्थ:
 
काकः काले काष्ठनिविष्टदृष्टः ॥ ३४६ ॥
 
2669
 
प्रयाति वामे यदि पृष्ठदेशे
 
कृतार वस्तद्रुधिर श्रुति: स्यात् ।
 
बल्लोवरत्रादिवसां गृहीत्वा
 
प्रयाति वामे स हि सर्पभीत्यै ॥ ३४७ ॥
 
2670
 
नदीतटे वाथ रटन्नटव्यां
 
खरस्वरो व्याघ्रभयाय गन्तुः ।
नैवातुर: कापि मतो हिताय
 
न हृष्टपुष्टः कचिदेव दुष्टः ॥ ३४८ ॥
 
३९१